परिभाषेन्दुशेखरस्थपरिभाषाया अर्थविवरणम्

परिभाषेन्दुशेखरस्थपरिभाषाया अर्थविवरणम्

किञ्चित्प्रस्ताविकम्

येन विधिस्तदन्तस्य (अष्टा.१.१.७२) इति सूत्रार्थो भवति— विशेषणं तदन्तस्य सञ्ज्ञा स्यात् स्वस्य च रूपस्य। तेन प्रातिपदिकाधिकारो यत्र वर्तते तत्र प्रातिपदिकं विशेष्यं भवति, तत्तत् सूत्रे उच्चारितानुपूर्वीविशिष्टं प्रातिपदिकं च विशेषणं भवति। तथा सति सूत्रानुसारेण यद्यदानुपूर्वीविशिष्टं प्रातिपदिकं विशेषणीकृतम्, तत्र तस्य प्रातिपदिकस्य यत्कार्यं विहितं तत् तदानुपूर्वीविशिष्टान्तस्यापि भवति इति तदेव तदन्तविधेरर्थः। एवं प्रातिपदिकाधिकारे तदन्तविधिस्वीकाराद् अनपेक्षितस्थलेऽपि तदन्तविधेः प्रसक्तेः क्वचिद्दोषो जायते। अतः तद्दोषवारणाय तदन्तविधिनिषेधिका परिभाषा पठिता ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति इति। अनया परिभाषया तदन्तविधौ प्रसक्तो दोषः कथं परिह्रियते? कुत्र कुत्रास्याः प्रवृत्तिः? किं वात्र ज्ञापकम्? ज्ञापकस्य च किं फलम्? इत्यादिविचारा वक्ष्यन्ते।

परिभाषाया आवश्यकता—

येन विधिस्तदन्तस्य (अष्टा.१.१.७२) इति सूत्रेण विशेषणं तदन्तस्य सञ्ज्ञा स्याद् इत्युच्यते। एवं च गर्गादिभ्यो यञ् (अष्टा.४.१.१०५) इति सूत्रे प्रातिपदिकाधिकारः वर्तते, तेन येन विधिस्तदन्तस्य (अष्टा.१.१.७२) इति सूत्रबलात् प्रातिपदिकं विशेष्यीकृत्य सूत्रोपात्तानि गर्गादिप्रातिपदिकानि विशेषणीकृत्य यदा तदन्तविधिः क्रियते तदा सूत्रार्थ एवं भवति गर्गाद्यन्तप्रातिपदिकाद् यञ् स्याद् इति। तथा सति गर्गादिप्रातिपदिकेभ्यो विधीयमानो यञ्-प्रत्ययो गर्गाद्यन्तेभ्यः परमगर्गादिप्रातिपदिकेभ्योऽप्यतिप्रसक्तो भवेत्। अनेनानिष्टस्थलेऽपि सूत्रप्रवृत्तावनिष्टं रूपं निष्पद्येत। तच्च दोषाय भवति। अतस्तद्वारणाय तदन्तविधेर्निषेधिकेयं परिभाषारब्धा—

ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति

परिभाषार्थः—

अस्याः परिभाषाया अर्थो भवति यत्र सूत्रे यस्य प्रातिपदिकस्य विशिष्टरूपेण ग्रहणं कृतं तत्र विशेषणीभूतप्रातिपदिकेन तदन्तविधिर्न भवति।

परिभाषार्थसमन्वयः—

प्रकृते गर्गादिभ्यो यञ् (अष्टा.४.१.१०५) इति सूत्रे गर्गादिभ्य इति विशिष्य गृहीतम्, अतः तेन विशेषणीभूतेन परमगर्ग इति प्रातिपदिकेन तदन्तविधेर्निषेधाद् गर्गादिभ्यो विधीयमानो यञ्-प्रत्ययो गर्गाद्यन्तात् परमगर्ग इति प्रातिपदिकान्न भवति।

परिभाषायाः मूलं तत्प्रवृत्तिस्थलं च—

परिभाषेयं समासप्रत्ययविधौ प्रतिषेधः इति वार्तिकस्थसमासांशं विहाय शेषस्य प्रत्ययांशस्यानुवादमात्रम्। न त्वपूर्वा परिभाषा। अत एवेयं तत्रैव तदन्तविधेर्निषेधं करोति यत्र प्रत्ययविधिर्वर्तते। प्रत्ययविधिं विहायान्यस्मिन् विधौ कर्तव्ये इयं परिभाषा न प्रवर्तते। अतोऽन्यत्र तु तदन्तविधिर्भवत्येव।

प्रत्ययविधिस्थले प्रवृत्तौ प्रमाणम्—

तत्र येन विधिस्तदन्तस्य (अष्टा.१.१.७२) इति सूत्रभाष्ये प्रत्ययविधिभिन्नदीर्घविधौ तदन्तविधेः स्वसा परमस्वसा इत्याद्युदाहरणानि दत्तानि। अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षतृहोतृपोतृप्रशास्तॄणाम् (अष्टा.६.४.११) इत्युपधादीर्घविधायकसूत्रे स्वस्रादीनां प्रातिपदिकानां विशिष्य ग्रहणेऽपि गृह्यमाणेन स्वसृ इति प्रातिपदिकेन विशेषणीभूतेन यदि तदन्तविधिर्न स्यात् तर्हि स्वसृशब्दस्य विधीयमान उपधादीर्घः परमस्वसृशब्दस्य न स्यात्। एवञ्च प्रत्ययविधिभिन्नदीर्घविधौ तदन्तविधेः प्रवृत्तेरेव येन विधिस्तदन्तस्य (अष्टा.१.१.७२) इति सूत्रभाष्योक्तानि स्वसा परमस्वसा इत्याद्युदाहरणानि सङ्गतानि भवन्ति। एवञ्च यत्र प्रत्ययविधिः तत्र तदन्तविधिप्रतिषेधः। यत्र तु प्रत्ययविधिभिन्नविधिः तत्र न तदन्तविधिप्रतिषेधः। तेन प्रत्ययविधिभिन्नविधिस्थले तदन्तविधिर्भवत्येवेति फलितम्। प्रक्रियया इतोऽपि स्पष्टं भविष्यति।

अत्रेत्थं प्रक्रिया—

परमा चासौ स्वसा इति लौकिकविग्रहे परमा+सु स्वसृ+सु इत्यलौकिकविग्रहे सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः (अष्टा.२.१.६१) इति सूत्रेण कर्मधारयसमासे कृत्तद्धितसमासाश्च (अष्टा.१.२.४६) इति सूत्रेण प्रातिपदिकसञ्ज्ञायां सुपो धातुप्रातिपदिकयोः (अष्टा.२.४.७१) इति सूत्रेण सुब्लुकि परमा+स्वसृ इति जाते प्रथमानिर्दिष्टं समास उपसर्जनम् (अष्टा.१.२.४३) इति सूत्रेण सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः (अष्टा.२.१.६१) इति समासविधायकसूत्रे परमशब्दस्य प्रथमान्ततया निर्दिष्टत्वात् तस्योपसर्जनसञ्ज्ञायाम्, उपसर्जनं पूर्वम् (अष्टा.२.२.३०) इति सूत्रेण परमाशब्दस्य पूर्वनिपाते, परमा+स्वसृ इति जाते स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियादिषु (अष्टा.६.३.३४) इति सूत्रेण परमाशब्दस्य पुंवद्भावे परम इति कृते परमस्वसृ इति समस्तात् समासत्वात् कृत्तद्धितसमासाश्च (अष्टा.१.२.४६) इति सूत्रेण पुनः प्रातिपदिकसञ्ज्ञायां प्रथमाविभक्तावेकवचनविवक्षायां स्वौजसमौट्छस्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् (अष्टा.४.१.१२) इति सूत्रेण सुप्रत्ययेऽनुबन्धलोपे परमस्वसृ+स् इति जाते ऋतो ङिसर्वनामस्थानयोः (अष्टा.७.३.११०) ङौ सर्वनामस्थाने च परे ऋदन्ताङ्गस्य गुणः स्याद् इत्यर्थकेन सूत्रेण परमस्वसृ इति ऋदन्ताङ्गस्य गुणे प्राप्ते ऋदुशनस्पुरदंसोऽनेहसां च (अष्टा.७.१.९४) इति सूत्रेण ऋदन्तानामुशनसादीनां चानङ् स्यादसम्बुद्धौ सौ परे इत्यर्थकेनात्र परमस्वसृशब्दस्य ऋकारस्यानङादेशेऽनुबन्धलोपे परमस्वस्+अन्+स् इति जाते अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षतृहोतृपोतृप्रशास्तॄणाम् (अष्टा.६.४.११) इति सूत्रेणासम्बुद्धौ सर्वनामस्थाने परे उपधादीर्घः। एवञ्च परमस्वसान्+स् इति जाते हल्ङ्याभ्यो दीर्घात्सुतिस्यपृक्तं हल् (अष्टा.६.१.६८) इति सूत्रेण सस्य लोपे नलोपः प्रातिपदिकान्तस्य (अष्टा.८.२.७) इत्यनेन नलोपे परमस्वसा इति सिद्ध्यति।

प्रत्ययविधिस्थले प्रवृत्तौ प्रमाणान्तरम्—

परिभाषेयं समासप्रत्ययविधौ प्रतिषेधः इति वार्तिकस्थसमासांशं विहाय शेषस्य प्रत्ययांशस्यानुवादमात्रं न त्वपूर्ववचनम्। तथा स्वीकारादेव येन विधिस्तदन्तस्य (अष्टा.१.१.७२) इति सूत्रभाष्ये समासप्रत्ययविधौ प्रतिषेधः इति तदन्तविधिनिषेधवचनमिव ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति इत्यस्याः परिभाषायाः पृथक्कथनं न कृतम्। यदीयं पूर्वोक्तवार्तिकस्यानुवादमात्रं न स्यात् तर्हि समासप्रत्ययविधौ प्रतिषेधः इति निषेधवचनमिव ग्रहणवतेत्यादिनिषेधवचनमपि पृथक्तयावश्यं कृतं स्यात्। तस्मात् स्पष्टमिदं यद् वार्तिकस्य प्रत्ययांशस्यानुवादमात्रमिदं न त्वपूर्ववचनम्।

वार्तिकस्थप्रत्ययविधिनिषेधांशस्य परिभाषायाश्च समानविषयकत्वे प्रमाणम्—

एवं च समासप्रत्ययविधौ प्रतिषेधः इति वार्तिकस्य प्रत्ययांशनिषेधः प्रकृतपरिभाषा च तत्तद्रूपेण गृहीतप्रातिपदिकसूत्रे एव प्रवर्तेते। गृहीतप्रातिपदिकसूत्रं नाम गृहीतं प्रातिपदिकं यस्मिन् तत् गृहीतप्रातिपदिकम्। अन्यपदार्थः सूत्रम्। गृहीतप्रातिपदिकं च तत्सूत्रं च गृहीतप्रातिपदिकसूत्रम्। गृहीतमित्युक्ते विशिष्टरूपेणोच्चारितमित्यर्थः। तेनैते उभे अपि समानविषयके एव। अर्थाद् वार्तिकस्थप्रत्ययविधिनिषेधः प्रकृतपरिभाषा च तत्रैव प्रवर्तते यत्र सूत्रे विशिष्य तत्तद्रूपेण प्रातिपदिकस्य ग्रहणं वर्तते। तत्रैव च वार्तिकस्थप्रत्ययविधिनिषेधस्य प्रकृतपरिभाषायाश्च प्रवृत्तिरित्युभयोः समानविषयकत्वं फलितम्। एवमेव उगिद्वर्णग्रहणवर्जम् इति निषेधोऽपि प्रत्ययांशानुवादक एव न त्वपूर्ववचनम्। इदं सर्वम् असमासे निष्कादिभ्यः इति सूत्रभाष्ये ध्वनितम्।

तत्रादौ प्रक्रियां जानीमः। निष्केण क्रीतं नैष्किकम् इत्यत्र निष्कशब्दात् असमासे निष्कादिभ्यः (अष्टा.५.१.२०) इति सूत्रेण ठकि तस्य ठस्येकः (अष्टा.७.३.५०) इत्यनेन इकादेशे, निष्क+इक इति जाते यचि भम् (अष्टा.१.४.१८) इति सूत्रेण भसञ्ज्ञायां यस्येति च (अष्टा.६.४.१४८) इति सूत्रेण निष्कशब्दस्यान्त्यस्याकारस्य लोपे निष्क्+इक इति जाते किति च (अष्टा.७.२.११८) इति सूत्रेणादिवृद्धौ नैष्किक इति जाते तद्धितान्तत्वात् कृत्तद्धितसमासाश्च (अष्टा.१.२.४६) इति सूत्रेण प्रातिपदिकसञ्ज्ञायां प्रथमाविभक्तावेकवचनविवक्षायां सुप्रत्यये नैष्किक+सु इति जाते अतोऽम् (अष्टा.७.१.२४) इति सूत्रेण सोरमादेशे अमि पूर्वः (अष्टा.६.१.१०३) इति सूत्रेण पूर्वरूपे नैष्किकम् इति सिद्धं भवति।

एवमेव परमनिष्केण क्रीतं परमनैष्किकम् इत्यत्र परमनिष्कशब्दात् प्राग्वतेष्ठञ् (अष्टा.५.१.१८) इति सूत्रेण ठञि तस्य ठस्येकः (अष्टा.७.३.५०) इत्यनेन इकादेशे, परमनिष्क+इक इति जाते यचि भम् (अष्टा.१.४.१८) इति सूत्रेण भसञ्ज्ञायां यस्येति च (अष्टा.६.४.१४८) इति सूत्रेण परमनिष्कशब्दस्यान्त्यस्याकारस्य लोपे परमनिष्क्+इक इति जाते तद्धितेष्वचामादेः (अष्टा.७.२.११७) इति प्राप्तामादिवृद्धिं बाधित्वा परिमाणान्तस्यासञ्ज्ञाशाणयोः (अष्टा.७.३.१७) इति सूत्रेणोत्तरपदवृद्धौ परमनैष्किक इति जाते तद्धितान्तत्वात् कृत्तद्धितसमासाश्च (अष्टा.१.२.४६) इति सूत्रेण प्रातिपदिकसञ्ज्ञायां प्रथमाविभक्तावेकवचनविवक्षायां सुप्रत्यये परमनैष्किक+सु इति जाते अतोऽम् (अष्टा.७.१.२४) इति सूत्रेण सोरमादेशे अमि पूर्वः (अष्टा.६.१.१०३) इति सूत्रेण पूर्वरूपे परमनैष्किकम् इति सिद्धं भवति।

समानविषयकत्वध्वननप्रकारः—

तत्र भाष्ये इत्थं विचारितं यत् असमासे निष्कादिभ्यः (अष्टा.५.१.२०) इत्यनेन निष्कादिभ्योऽसमासे ठक्-प्रत्ययो विधीयते आर्हीयेष्वर्थेषु, समासे तु ठञ् भवति। तत्र सूत्रे परमनिष्कशब्दाद् विशिष्टात् ठक्प्रत्ययवारणायात्र समासग्रहणमनावश्यकं यतः ग्रहणवता प्रातिपदिकेन इति परिभाषयात्र तदन्तविधिनिषेधो भविष्यति। तेन परमनिष्क इत्यादिसमासस्थले ठकः प्राप्तिरेव नास्ति। तस्मात् समासस्थले ठग्वारणाय कृतोऽसमासग्रहणं व्यर्थं सज्ज्ञापयति यद् प्राग्वतेष्ठञ् (अष्टा.५.१.१८) इत्यत्र तदन्तविधेर्निषेधो न भवतीति। ततः भाष्यकारेण नैतदस्ति प्रयोजनम्। ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते न च ठञ्विधौ काचित्प्रकृतिर्गृह्यते इति शङ्का कृता। अर्थात् ठञ्विधौ काचित्प्रकृतिः प्रातिपदिकं वा विशिष्टरूपेण न गृह्यते। तस्मात् तत्र ग्रहणवता इति निषेधस्य प्राप्तिरेव नास्ति। तर्हि ज्ञापनस्य किं फलमिति चेत् पूर्वोक्तशङ्कोत्तरम् इदं तर्हि प्रयोजनम्। आर्हादगोपुच्छसङ्ख्यापरिमाणाट्ठक् परमगोपुच्छेन क्रीतं पारमगोपुच्छिकम्। अत्र तदन्तविधिः सिद्धो भवति इति प्रयोजनान्तरं प्रदर्शितम्। यदि ग्रहणवता इति निषेध एव विशिष्य गृहीतप्रातिपदिकसूत्रे प्रवर्तते, समासप्रत्ययविधौ इति निषेधस्तु सर्वसाधारण्येन प्रवर्तते चेत् प्राग्वतेष्ठञ् (अष्टा.५.१.१८) इत्यत्र तदन्तविधिर्न स्यात्। तथा च तत्र तदन्तविधिसाधनायासमासग्रहणज्ञापकं सार्थकमेव भवति। तर्हि नैतदस्ति प्रयोजनम् इत्युक्त्या इदं तर्हि प्रयोजनम्। आर्हादगोपुच्छ इत्यादिप्रयोजनान्तरप्रदर्शनं भाष्यकारस्यासङ्गतमेव स्यात्। अनेनेदं सिद्धं भवति यद् ग्रहणवता इति निषेधस्येव समासप्रत्ययविधौ इति निषेधोऽपि प्रातिपदिकविशेषग्रहणे एव प्रवर्तते।

परिभाषाया ज्ञापकम्—

अस्याः परिभाषायाः ज्ञापकं भवति सपूर्वाच्च (अष्टा.५.२.८७) इति सूत्रम्। अन्यथा पूर्वादिनिः (अष्टा.५.२.८६) इत्यत्र तदन्तविधिना सिद्धं किं तेन।

आदौ सूत्रद्वयसम्बद्धां प्रक्रियां ज्ञात्वा पूर्वोक्तस्याशयं विवृणुमः।

पूर्वी— पूर्वं कृतमनेन इत्यर्थे पूर्वशब्दात् पूर्वादिनिः (अष्टा.५.२.८६) इति सूत्रेण इनिप्रत्यये पूर्व+इन् इति जाते यचि भम् (अष्टा.१.४.१८) इति सूत्रेण भसञ्ज्ञायां यस्येति च (अष्टा.६.४.१४८) इति सूत्रेण पूर्वशब्दस्यान्त्यस्याकारस्य लोपे पूर्व्+इन् इति जाते तद्धितान्तत्वात् कृत्तद्धितसमासाश्च (अष्टा.१.२.४६) इति सूत्रेण प्रातिपदिकसञ्ज्ञायां प्रथमाविभक्तावेकवचनविवक्षायां सुप्रत्यये पूर्विन्+स् इति जाते सर्वनामस्थाने चासम्बुद्धौ (अष्टा.६.४.८) इति सूत्रेणोपधादीर्घे पूर्वीन्+स् इति जाते हल्ङ्याभ्यो दीर्घात्सुतिस्यपृक्तं हल् (अष्टा.६.१.६८) इति सूत्रेण सस्य लोपे नलोपः प्रातिपदिकान्तस्य (अष्टा.८.२.७) इत्यनेन नलोपे पूर्वी इति सिद्ध्यति।

कृतपूर्वी कटम्— कटः पूर्वं कृतोऽनेनेत्यर्थे आदौ पूर्वमिति क्रियाविशेषणेन कृतशब्दस्य सुप्सुपा इति समासे कृतपूर्वशब्दात् सपूर्वाच्च (अष्टा.५.२.८७) इति सूत्रेण इनिप्रत्यये कृतपूर्व+इन् इति जाते यचि भम् (अष्टा.१.४.१८) इति सूत्रेण भसञ्ज्ञायां यस्येति च (अष्टा.६.४.१४८) इति सूत्रेण कृतपूर्वशब्दस्यान्त्यस्याकारस्य लोपे कृतपूर्व्+इन् इति जाते तद्धितान्तत्वात् कृत्तद्धितसमासाश्च (अष्टा.१.२.४६) इति सूत्रेण प्रातिपदिकसञ्ज्ञायां प्रथमाविभक्तावेकवचनविवक्षायां सुप्रत्यये कृतपूर्विन्+स् इति जाते सर्वनामस्थाने चासम्बुद्धौ (अष्टा.६.४.८) इति सूत्रेणोपधादीर्घे पूर्वीन्+स् इति जाते हल्ङ्याभ्यो दीर्घात्सुतिस्यपृक्तं हल् (अष्टा.६.१.६८) इति सूत्रेण सस्य लोपे नलोपः प्रातिपदिकान्तस्य (अष्टा.८.२.७) इत्यनेन नलोपे कृतपूर्वी इति सिद्ध्यति।

एवञ्च प्रक्रियया स्पष्टं यत् पूर्वादिनिः (अष्टा.५.२.८६) इति सूत्रं कृतमनेन इत्यर्थे पूर्वशब्दाद् इनिप्रत्ययं विदधाति। सपूर्वाच्च इति सूत्रं तु विद्यमानपूर्वाद् नाम पूर्वशब्दान्ताद् इनिं विदधाति। अत्र पूर्वादिनिः (अष्टा.५.२.८६) इत्यत्र तदन्तविधिनैव कृतपूर्वशब्दाद् इनिः कर्तुं शक्यते। तर्हि पूर्वादिनिः (अष्टा.५.२.८६) इत्यनेनैव इनिप्रत्यये सिद्धे सपूर्वाच्च (अष्टा.५.२.८७) इति सूत्रं व्यर्थम्। एवं सूत्रमिदं व्यर्थं सत् परिभाषामिमां ज्ञापयति यद् ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति इति। यदेयं परिभाषा वर्तते तदा पूर्वादिनिः (अष्टा.५.२.८६) इति सूत्रे पूर्व इति प्रातिपदिकस्य विशिष्य ग्रहणात् तदन्तविधेरभावे कृतपूर्वशब्दाद् इनिर्न सिद्ध्यति। तदर्थं सपूर्वाच्च (अष्टा.५.२.८७) इति पृथक्सूत्रमावश्यकम्।

इदमत्र ज्ञातव्यम्— ज्ञापकं सर्वदा सोपानचतुष्टयेन युक्तं भवेत् चेदेव तद् ज्ञापकं सम्यगिव मन्यते। किं तत्सोपानचतुष्टयमित्युक्ते?

  • पुरतो वैयर्थ्यम्।
  • पश्चात् किञ्चिदर्थकल्पनम्।
  • स्वांशे चारितार्थ्यम्।
  • अन्यत्र फलम्।

इत्येतेषां प्रकृते समन्वयं पश्यामः। तथा हि— पूर्वादिनिः (अष्टा.५.२.८६) इत्यनेनैव कृतपूर्वशब्दाद् इनिप्रत्यये सिद्धे सपूर्वाच्च (अष्टा.५.२.८७) इति सूत्रं व्यर्थमिति पुरतो वैयर्थ्यम्। व्यर्थं सत् तत्सूत्रं ज्ञापयति = किञ्चिदर्थं कल्पयति यद् ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति इति। इत्थमेतादृशार्थकल्पनेन यदा यत्र सूत्रे पूर्वादिनिः (अष्टा.५.२.८६) इति सूत्रे विशिष्य प्रातिपदिकं गृहीतम् = पूर्व इति प्रातिपदिकं गृहीतम्, तत्र तदन्तविधिर्नास्तीति स्वीकारात् पूर्वान्तशब्दात् = कृतपूर्व इत्यस्माद् इनिर्न सिद्ध्यति। अतः सपूर्वाच्च (अष्टा.५.२.८७) इति सूत्रमपेक्षितं नाम स्वांशे चरितार्थम्। अन्यत्र फलं तु गर्गादिभ्यो यञ् (अष्टा.४.१.१०५) इति सूत्रे गर्ग इति प्रातिपदिकस्य विशिष्य ग्रहणाद् गर्गान्तात् परमगर्गशब्दाद् यञो वारणम्। इत्येतावता ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति इति परिभाषाविषयः समाप्तः।

 

लेखकः- मञ्जुनाथभट्टः

(कनिष्ठ संपादकः)

(श्रुतभवनसंशोधनकेन्द्रम्, पुण्यपत्तनम्)