Article About Sanskrit Language

॥ऐँ॥

विदितमेव भवतां यदुत-समस्तेऽपि विश्वे भारतीया संस्कृतिः प्राचीनतमा प्रगततरा च अस्ति। भारते बौद्धिकसम्पदः विकासः सर्वाधिकः अवर्तत। जीवनस्य प्रत्येकस्मिन् विषये भारतीयैः विचारितम् अस्ति, लिखितमपि अस्ति। सुग्रथितविचारा एव युक्तिपुरःसराः प्रमाणपरीक्षिताः च शास्त्राणि इति उच्यन्ते। शास्त्रेषु एव भारतीयसंस्कृतेः आत्मा निहितः अस्ति। भारतीयप्रजायाः संस्कारपिण्डः शास्त्रैः निबद्धः अस्ति। शास्त्रे रक्षिते आचारः रक्षितः भवति, आचारे रक्षिते बुद्धिः रक्षिताः भवति, बुद्धौ रक्षितायां संस्काराः रक्षिताः भवन्ति, संस्कारेषु रक्षितेषु संस्कृतिः रक्षिता भवति।

कस्मात् कारणात् भारतीयशास्त्राणि अमूल्यानि सन्तीति निर्देष्टुम् उदाहरणम् एकं प्रस्तौमि।

ईसवीये १७५२ (एकपञ्चाशदधिके सप्तदशशत)तमे वर्षे एकेन आङ्ग्लमहानुभावेन कस्यचित् चीनीभाषायां निबद्धस्य पुस्तकस्य आङ्ग्लानुवादः कृतः। स च ‘The Economy of Human Life’ इति नाम्ना प्रकाशितः। अत्यन्तं लोकप्रियस्य अस्य पुस्तकस्य ईसवीये १८१२ (द्वादशाधिकाष्टशत)तमे वर्षे षष्ठिवर्षाभ्यन्तरतः एव पञ्चाशद् आवृत्तयः सञ्जाताः। फ्रेंच-जर्मन-इटालियन् इत्यादिषु युरोपीयभाषास्वपि तस्य अनुवादः सम्पन्नः।

अस्याः कृतेः मूलादर्शा पाण्डुलिपिः तिब्बतदेशीय ल्हासाप्रदेशे पौन्ताला नामके पर्वते वर्तमाने एकस्मिन् विशाले ग्रन्थागारे आसीत्। तत्कालीनानां चीनदेशीयानां विदुषां ध्यानं पैगोडास्थितिषु ग्रन्थेषु आकृष्टम्। चीनसम्राजा काउत्सौनामकः कश्चिद् गभीरः उच्चविचारकः च विद्वान् पत्रं दत्त्वा तत्र प्रेषितः। अनेन विदुषा षण्मासं यावद् ग्रन्थानां अभ्यासः कृतः। तेषु प्राचीनतमः एकः लेखः समुपलब्धः यः ब्राह्मीलिपौ (जिमनासोफिस्ट) लिखितः आसीत्। लामागुरवः अपि तं ग्रन्थं पठितुं शक्ताः न आसन्। काउत्सौविदुषा स ग्रन्थः अधीत्य चीनीभाषायां अनूदितः।

अस्य ग्रन्थस्य मूलकर्ता कः इति अद्यापि न निश्चितं तथापि येन अज्ञातेन आङ्ग्लविदुषा अस्य अनुवादः कृतः स अन्तःसाक्ष्यादिना अनुमिनोति यदयं ग्रन्थः केनचित् ‘ब्राह्मणडण्डामिस’ नाम्ना विदुषा कृत इति। काउत्सौविद्वानपि प्रायः एवं अभिप्रैति यत् ‘येन भावेन अयं ग्रन्थः निर्मितः तं दृष्ट्वा अयं अनुवादः नास्ति किन्तु मूलग्रन्थ एव अस्ति’।

अस्य आङ्गलानुवादः पुनः अनेकासु भाषासु अनूद्य प्रकाशं प्राप्तः। उर्दूभाषायां त्रयः अनुवादाः सन्ति। ‘हिदीक-तुल-अखलाक’ नाम्ना (ईसवीये१९१३) ‘निझामे-हयाते-इन्सानी’ नाम्ना, ‘तनजीम-उल-हायत’नाम्ना च। ‘नीतिनिर्झर’ नाम्ना हिंदीभाषायामपि वर्तते। ‘सदीओ पुराणुं शाणपण’ इति नाम्ना गुर्जरभाषायामपि वर्तते।

अस्मिन् शास्त्रे जीवनस्य प्रत्येकासु अवस्थासु उपयोगिन्यः मूल्यशिक्षाः वर्तन्ते। प्रेरणाप्रदमार्गदर्शिका (Motvational guide) सदृशोऽयं ग्रन्थः मूलतः भारतीयबौद्धिकसम्पदेव चीनीप्रवासीभिः तत्र नीता इत्यत्र न शङ्कालेशोऽपि। एवंविधानि लक्षाधिकानि विश्वस्य विकासे, विज्ञाने, व्यवहारे च उपयोगिनि शास्त्राणि भारतदेशे अधुना अपि वर्तन्ते।

तेषां भाषा ‘संस्कृतम्’ वर्तते। सा एव सर्वासां एव भाषानां मातृभाषाः इति अतः अस्माभिः विशेषं प्रयासं कृत्वा संस्कृतभाषायाः गौरवं पुनः संस्थापनीयम्।

अस्मिन् प्रयासे दत्तचित्ता संस्कृतभारती अनुमोदनार्हा अस्ति। तस्याः यशस्वितायै प्रार्थयन् सर्वेषामेव संस्कृतानुरागिणां शुभम् अभिलषन् च विरमति।

श्रुतभवनस्थः वैराग्यरतिविजयः। वैक्रमीये २०७१ तमे वर्षे पौषशुक्लद्वादशीतिथौ रविवासरे